मरिचोग्र कुष्ठमुस्तै सर्वैरेव विषं समं
पिष्ट्वा च आर्द्र रसैनेव वटिका रक्तिका मता
आमज्वरे प्रथमतो मधु शुण्ठ्या च पिष्ट्या
आर्दकस्य रसेनापि निर्गुण्ड्या च कफज्वरे
पीनसे च प्रतिश्याये आर्द्रकस्य च वारिणा
अग्निमान्दे लवङ्गेन शोफे सदशमूलके
दद्यात ग्रहण्यां शुण्ठ्या च मुस्तकेन अतिसारके
सामे च धान्यशुण्ठीभ्यां पक्वे च कुटज मधु
संनिपातः ज्वरारम्भे पिप्पल्याद्रक वारिणा
कण्डकारी रसै: कासे श्वासे तैलगुडान्वितं
पीत्वा वटीद्वयं रोगी स्वास्थ्यं समुपगच्छति
सर्वेषामेव रोगाणां आमदोषप्रशान्तये
अग्निवृद्धिकरो नाम्ना विघ्यतो अग्निकुमारकः।
Sahasrayoga
Gulika