Kwatha:
Kalka:
Sneha:
अरिमेदत्वचोग्राह्यं नवान् पलशतं भवेत् |
न्यग्रोधोदुम्बराश्वत्था प्लक्षवल्कात्शतं तथा ||
चतुर्द्रोणे जलेपक्त्वा चतुर्भागावशेषिते |
तैलाढकं पचेत्तत्र कार्षिकैः कल्कितैरिमैः ||
यष्टी त्रिजात मञ्जिष्टा गायत्री लोध्रकट्फलैः |
क्षीरिवृक्षारिमेदत्वङ्ग् मुस्तागरुहिमद्वयैः ||
कर्पूरजातितक्कोल मांसी धातकी गैरिकैः |
मृणालमिसी वैदेही पद्मकेसरकुम्कुमैः ||
लाक्षा समंगा बृहती विल्वमध्य सुरद्रुमैः |
शैलेय सरलस्पृक्का पलाश रजनीद्वयैः ||
प्रियङ्गु तेजनी पार्था शरपुङ्ग फलत्रयैः |
कालेय पुष्करजडा व्याघ्रि मदनसम्युतैः ||
जाते चिक्कणपाके तु परिस्राव्य निधापयेत् |
तन्नस्यपानगण्डुषवस्त्यभ्यङ्गेषु योजयेत् ||
मुखजानामयान् हन्ति विशेषाद्दन्तरोगजित् |
Sahasrayogam
Taila