शुद्धो बलिर्गोपयसा विभाव्य ततश्चतुर्जातगुडू्चिकाभिः।
पथ्याक्षधाज्यौषभृंगराजैर्भाव्योऽष्टवारं पृथगाद्द्रिण ॥
शुद्धे सितां योजय तुल्यभागां रसायनं गन्धकराजसंज्ञम्।
कर्षोन्मितं सेवितमेति मत्त्यो वीर्यं च पुष्टिं दृढदेहवन्हिम्॥
कण्डुं च कुष्ठं विषदोषमुग्रं मासद्वयेनेह जयेत्प्रयोगः।
घोरातिसारं ग्रहणीपदं च हरेच्च रक्तं दृढशूलयुक्तम्॥
जीर्णज्वरे मेहगणे प्रकृष्ट वातामयानां हरणे समर्थम्।
प्रजाकरं केशमतीव कृष्णं करोति चेद्धक्षति चार्धवर्षम्॥
Yogaratnakara
Lehyam