विडङ्गपिप्पलीमूलत्रिफलाधान्यचित्रकान्।
मरीचेन्द्रयवाजाजी पिप्पलीहस्तिपिप्पलीः
दीप्यकं पञ्चलवणं चूर्णितं कार्षिकं पृथक्।
तिलतैलत्रिवृच्चूर्णभागौ चाष्ठपलोन्मितौ॥
धात्रीफलरसप्रस्थांस्त्रीन् गुडार्धतुलान्वितान्।
पक्त्वा मृद्वग्निना खादेत्ततो मात्रामयन्त्रणः॥
कुष्ठार्श कामलागुल्ममेहोदरभगन्दरान्।
ग्रहणीपाण्डुरोगांश्च हन्ति पुंसवनश्च सः॥
गुडः कल्याणको नामो सर्वेष्वृतुषु यौगिकः।
Ashtanga Hridaya Virechana Kalpam
Lehyam