125mg -250mg or half -1 tab
Dadhi, jala, takra, sura ,sidhu, Madhya etc
पलं कृष्णाभ्रचूर्णस्य तदर्द्धौ रसगन्धकौ ।
तदर्धं चन्द्रसंज्ञस्य जातीकोषफले तथा ।। 
वृद्धदारकबीजं च बीजं धुस्तूरकस्य च।
त्रैलोक्यविजयाबीजं विदारीमूलमेव च ।। 
नारायणी तथा नागबला चातिबला तथा । 
बीजं गोक्षुरकस्यापि नैचुलं बीजमेव च ।।
एतेषां कार्षिकं चूर्णं पर्णपत्ररसैः पुनः । 
निष्पिष्य वटिका कार्या त्रिगुञ्जाफलमानतः ।।
निहन्तिसन्निपातोत्थान्घोरांश्चैवचतुर्विधान्।
वातोत्थान्पैत्तिकांश्चैवनास्त्यत्रनियम:क्वचित् ।
कुष्ठमष्टादशविघधं प्रमेहान् विंशतिं तथा । 
नाडीव्रणं ब्रणं घोरं गुदामयभगन्दरम् ।।
श्लीपदं कफवातोत्थं रक्तमांसाश्रितं च यत् ।
मेदोगतं धातुगतं चिरजं कुलसम्भवम् ।। 
गलशोथमन्त्रवृद्धिमतीसारं सुदारुणम् । 
आमवातं सर्वरूपं जिह्वास्तम्भं गलग्रहम् ।। 
उदरं कर्णनासाऽक्षिमुखवैकृतमेव च । 
कासपीनसयक्ष्मार्शः स्थौल्यदुर्गन्धनाशनः ।।
सर्वशूलं शिरःशूल स्त्रीणां गदनिषूदनम् । 
वटिकां प्रातरेकैकां खादेन्नित्यं यथाबलम् ।।
अनुपानमिह प्रोक्त माषपिष्टं पयो दधि । 
वारिभक्तसुरासीधुसेवनात् काकरूपधृक् ।।
वृद्धोऽपितरुणस्पर्धीनचशुक्रस्यसंक्षयः।
नचलिङ्गस्यशैथिल्यं न केशा यान्ति पक्वताम् ।।
नित्यं स्त्रीणां शतं गच्छेन्मत्तवारणविक्रमः।। 
द्विलक्षयोजनी दृष्टिजयिते पौष्टिकः परः ।। 
प्रोक्त: प्रयोगराजोऽयं नारदेन महात्मना ।
रसो लक्ष्मीविलासस्तु वासुदेवो जगत्पतिः ।
अभ्यासादस्य भगवांल्लक्षनारीषु वल्लभः ।।
Bhaishajya ratnavali
Bhasma and Sindoora