 
                                         
                                         
                                         
                                         
                                         
                                        मञ्जिष्ठा मुस्ता कुटज गुडूची कुष्ठनागरैः।
मार्गाः क्षुद्रा वचा निम्बानिशाद्वय फलत्रिकैः
पटोल कटुका मुर्वा विडङ्गासन चित्रकैः।
शतावरी त्रायमाणा कृष्णेन्द्रयव वाशकैः
भृङ्गराज महादारु पाठाः खदिर चन्दनैः
त्रिवृद्वरण कैरात बाकुची कृतमालकैः
शाखोटक महानिम्बकरञ्जातिविषा जलैः
इन्द्रवारुणिकानन्ता शारिवा पर्पटैः समैः
एभिः कृतं पिबेत् क्वाथं कणा गुग्गुलुसंयुतं
अष्टादशासु कुष्ठेषु वातरक्तार्दिते तथा
उपदंशे श्लीपदे च प्रसुप्तौ पक्षाघातके
मेदोदोषे नेत्ररोगे मञ्जिष्ठादि प्रशस्यते
Sahasrayoga- Vatarakta
 
                                        Kashayam
