रास्नाद्विगुणभागस्यादेकभागस्तथापरे।
धन्वयाषबलैरण्ड देवदारु शठी वचा।।
वाशको नागरं पथ्या चव्या मुस्ता पुनर्नवा
गुडूची वृद्धदारुश्च शतपुष्पा च गोक्षुरः।।
अश्वगन्धा प्रतिविषा कृतमालशतावरी
कृष्णा सहचरश्चैव धान्यं बृहतीद्वयम्।
अजमोजादिना चापि तैलेनैरण्डजेनवा
सर्वाङ्गकम्पे कुब्जत्वे पक्षाघातेऽपबाहुके।
गृध्रस्यामवातेच श्लीपदेचापतानके
आन्त्रवृद्धौ तथाध्माने जङ्घाजानुगदेऽर्दिते
शुक्लामये मेढ्ररोगे वन्ध्या योन्यामयेषु च।
महारास्नादिराख्यातो बृंहणा गर्भधारणे।।
Sahasrayoga- Vataroga
Kashayam