बला नागबला विल्व धावनीमूल विद्रुमैः
शङ्खुपुष्पी ताम्रचूड पदिका हेमपुष्करैः
मृगश्रृङ्गवचा ताप्य चन्दनद्वय मौक्तिकैः
काललोह मधूकत्वक् मागधी घनसारकैः
ऐेलेयक विशालार्क रागनिर्गुण्डिका प्लवैः
रास्ना रजतशैलेय गोजिह्वा पत्मकेसरैः
जीवक ऋषभ काकोली बृहती श्रावणीयुगैः
भूनिम्ब कृतमाल त्वक्परुषक फलत्रयैः
अमृता गोपिकाद्वन्द्व जीवन्ती सोमवल्लरी
हयगन्धा निशोशीर द्राक्षा यष्ट्याह्वयाद्धिभिः
दूर्वा हंसपदी भद्रा लवङ्ग तुलसीदलैः
कस्तूरीकुङ्कुमाभ्यां च पिष्टैः त्रायन्तीकारसे
शङ्खु पुष्पी कषाये च तोयेच वचयाश्रृते
अनन्तालक्ष्मणा विल्व बलामूलश्रृते अपिच
गोक्षीरे जीरकक्वाथे सोमवल्याश्च वारिणी
स्तन्ये च वटकान कुर्यात् भूनिम्बफलसम्मितान्
छायायामथ संशोष्य प्राप्तकाले सुचूर्णितम्
तेष्वेकैका समालोढ्य नव्येपयसि पाययेत
एते मानसमित्राख्यवटका पूर्वसम्मताः
मनोदोषहराः प्रज्ञा मेधां प्रतिभामपि ।
Sahasrayogam
Gulika