Sandhanadravya
नालिकेरोदकं चैव द्रोणमात्रं प्रदापयेत् । 
द्रोणार्ध रसमिक्षोश्च रसप्रस्थं तु शाल्मलेः ।। 
दशमूलरसस्यापि प्रस्थमात्रं तथैव च । 
घृतभाण्डे विनिक्षिप्य मध्ये चूर्णं निवेशयेत् ॥ 
चातुर्जातकधातक्योः पलानि खलु षोडश । 
शाणमात्रा तु कस्तूरी केशरं तगरं तथा ॥ 
चन्दनं देवपुष्पं च पलमात्रं पृथक् पृथक् । 
मासादूर्ध्वं पिबेच्चामुं रूपे कामसमो भवेत् ।। 
वृद्धोऽपि तरुणों गच्छेत् षण्ढोऽपि पुरुषायते ।
वलीपलितसंत्यक्तः शतायुश्च भवेन्नरः ॥ 
नालिकेरासवः प्रोक्तः शम्भुना परमेष्ठिना ।
Gadanigraha
Asava AND Arishta