बलामूलशतं ग्राह्यं दशमूलशतं तथा
शतावर्या गुलूच्याश्च द्राक्षा मधुकदारु च
माषाश्चवगन्धाचैरण्डा कुलत्थं बदजं यवाः
भूपीलु वैजयन्ती च मधुशिग्रु पुनर्न्नवा
वरणं सिन्धुवारञ्च सोमञ्चार्क प्रसारिणी
हिंस्रा कुलत्थ वह्निञ्च हपुषा च त्रिवृत्वचा
सैरिकञ्च महावृक्षो मोरटार्ज्जुनमेव च
रास्ना कार्पासबीजञ्च भद्रदारु महाबल
करञ्जद्वयकैरण्ड शुण्ठी च तृणपञ्चकम्
एषां पृथक् पञ्चपलं जले खारिचतुष्टये
अष्टभागावशिष्टे तु घृतपृस्थञ्च योजयेत्
तिलतैलं चतुःप्रस्थं प्रस्थमेरण्ड संभवम्
देवदारु वचा कुष्ठ सरलं चन्दनं तथा
मांसी रास्ना शताह्वा च शैलेयागरू चोरकं
काकोली क्षीरकाकोली जीवकर्षभकावुभौ
मेदा चैव महामेद पत्तंङ्ग रक्तचन्दनम्
मधुकोशीर मञ्जिष्ठा कौन्दी व्याघ्रनखं तथा
त्रिगन्धा नागपुष्पञ्च तगरं पद्मकं तथा
तुरगगन्ध मज्जिष्ठा हिङ्गु सौभञ्जनं तथा
कुष्ठं मधुक लोघ्रञ्च विलङ्गं सर्ज गुग्गुलु
एषां निष्कं पृथक् पिष्ट्वा शनैर्मृद्वग्निना पचेत्
क्रूढा परिस्रुतं सम्यग् स्वनगुप्तं निधापयेत्
नस्ये पाने तथाम्यङ्गे वस्त्यावेतत्तु पूजितम्
आढ्यवाते शिरःकम्पे खलाये खञ्जसप्तके
मन्यास्तम्भे हनुस्तम्भे ग्रीवस्तम्भे च जिह्वके
आक्षेपके शिरोरोगो पक्षाघातेर्दिते तथा
ऊरुस्तम्भे करस्तम्भे तथा श्वासवलासके
योनिशूले वस्तिशूले हृत्शूले च तथैव च
कुक्षिशूले पार्श्वशूले कण्ठशूले विशेषतः
विंशतिं श्लेष्मरोगेषु अशीतिं वातरोगके
चत्वारिम्श्च पित्तेषु सर्वरोगान् जयेदिदम्
सर्वज्वर क्षयोन्माद श्वासापस्मार पाप्मजित्
सर्वामयान्तकंनाम सिंहः क्षुद्रमृगानिव ।
Sahasrayogam
Ghritham