शतावर्यास्तुलामेकां जलद्रोणे विशोधितम्
आमर्द्यनिहितं कृत्वा पक्त्वा पादावशेषिते
तत्र कल्कीकृतैः कुष्ठ शताह्वा दारुचन्दनैः
मांसीशैलेयकद्राक्षा जीवकर्षभकैरपि
वरणोग्रा बलामूल तगरैला विडंगकैः
पूतीकनक्तमालांशुमतीमूलैश्च कार्षिकैः
प्रस्थं तैलस्य संपक्व दत्वा क्षीरं चतुर्गुणं
श्वासे कासे च बाधिर्ये पङ्गु खञ्जयोरपि
जिह्वास्तम्भे जरायाञ्ज षण्डत्वे वपुषक्षये
अस्थिभङ्गे च पर्वास्थिरुज विस्फोटकेषु च
विसर्पेपि च वृद्धौ च शर्करायां च कृच्छ्रके
वातकुण्डलिकायां च प्रमेहे मारुतार्तिषु
सर्वासु च प्रयुञ्जीते तांस्तान् व्याधीन् नियच्छति
एतत्वाताशनिर्नाम वातेन न निहन्यते ।।
Sahasrayogam
Taila