Kwatha
Choorna
दशमूलं स्वयंगुप्तां शङ्खुपुष्पिं शठीं बलां
हस्तिपिप्पल्यपामार्गपिप्पलीमूलचित्रकान्॥
भार्गी पुष्करमूलं च द्विपलांशं यवाढकम्।
हरीतकीशतं चैकं जलपञ्चाढके पचेत्॥
यवस्वेदे कषायं तं पूतं तच्चाभयाशतम्।
पचेद्गुडतुलां दत्त्वा कुडवं च पृथग्घृतात्॥
तैलात्सपिप्पलीचूर्णात्सिद्धशीते च माक्षिकात्।
लेहं द्वे चाभये नित्यमतः खादेद्रसायनात्॥
तद्वलीपलितं हन्याद्वर्णायुर्बलवर्धनम्।
पञ्चकासान् क्षयं श्वासं सहिध्मं विषमज्वरम्॥
मेहगुल्मग्रहण्यर्शोहृद्रोगारुचिपीनसान्
अगस्त्यविहितं धन्यमिदं श्रेष्ठं रसायनम्॥
Ashtanga Hridaya Kasa chikitsa
Lehyam