Choorna:
द्रोणेऽपां साधयेद्रास्ना दशमूलशतावरीम्।
पलोन्मिताः द्विकुडवं कुलत्थं बदरं यवम्॥
तुलार्धञ्चाजमांसस्य तेन सार्धं घृताढकम्।
समक्षीरं पलांशैश्च जीवनीयैस्समीक्ष्य तत्॥
प्रयुक्तं वातरोगेषु पाननावनवस्तिभिः।
पञ्चकासान् शिर:कम्पं योनिवंक्षणवेदनाः॥
सर्वांगैकरोगांश्च स प्लीहोर्ध्वानिलान् जयेत्॥
Sahasrayoga
Lehyam