Sneha
Dravadravya
Kalka
Patrapaka
जीवनीयो गणः शुण्ठी वरीवीरा पुनर्नवा
बला भारर्ङ्गी स्वगुप्तार्द्धि शटीतामलकी कणा
शृङ्गाटकं पयस्या च पञ्चमूलं च यल्लघु
द्राक्षाक्षोडादि च फलं मधुरस्निग्ध बृंहणम्
तैः पचेत् सर्पिषः प्रस्थं कर्षांशैः श्लक्षणकल्कितैः
क्षीरधात्रीविदारीक्षुच्छागमांसरसान्वितम्
प्रस्थार्द्धं मधुनश्शीते शर्करार्द्धतुलारजः
पलार्धकं च मरिचत्वगेलापत्रकेसरम्
विनीय चूर्णितं तस्मालिह्यान्मात्रम् यथाबलम्
अमृतप्राशमित्येतन्नराणाममृतम् घृतम्
सुधामृतरसं प्राश्यं क्षीरमांसरसाशिना
नब्टशुक्ल क्षतक्षीण दुर्बलव्याधि कर्शितान्
स्त्रीप्रसक्तान् कृशान् वर्णस्वरहीनांश्चबृंहयेत्
कासहिध्माज्वरश्वासदाहतृष्णास्र पित्तनुत
पुत्रंद च्छर्दिमूच्छा हृद्योनि मूत्रामयापहम् ।
Ashtanga Hridaya-Kasa
Ghritham