Sandhana dravya
Madhuradravya
अरविन्दमुशीरञ्च काश्मरी नीलमुत्पलम्
मञ्जिष्ठैला बलामांसीरम्बुदं शारिबां शिवाम्
बिभीतकवचाधात्रीः शटीं श्यामां सनीलिनीम्
पटोलं पर्पटं पार्थं मधूकं मधुकं मुराम्
पलमानेन संगृह्य द्राक्षायाः पलविंशतिम्
धातकीं षोडशपलां जलद्रोणद्वये क्षिपेत्
शर्करायास्तुलां तत्रत्तुलार्द्धं माक्षिकस्य च
मासं संस्थापयेत् भाण्डे मृत्तिकापरिनिर्मिते
बालानां सर्वरोघ्नो बलपुष्ट्यग्निवर्द्धनः
अरविन्दासवः प्रोक्ता आयुष्यो ग्रहदोषहृत् ।
Bhaishajya Ratnavali Balaroga chikithsa
Asava AND Arishta