अशोकवल्कलप्रस्थं तोयाढकविपाचितम्
पादस्थेन घृतप्रस्थं जीरकक्वाथसंयुतम्
तण्डुलाम्बु त्वजाक्षीरं घृतुल्यं प्रदापयेत्
तथैव केशराजस्य प्रस्थमेकं भिषग्वरः
यष्ट्याह्वाशोकमूलञ्च मृद्दीका च शतावरी ।
शरर्कराया पलान्यष्टौ सिद्धशीते प्रदापयेत्
पीतमेतद् घृतं हन्ति सर्वदोषसमुद्भवम्
श्वेतं नीलं तथा कृष्ण प्रदरं हन्ति दुस्तरम्
मन्दाग्निमरुचिं पाण्डु कृशतां श्वासकासकभ् ।
जीवनीयैः प्रियालैस्तु परूषैः सरसाञ्जनैः
तण्डुलीयकमृलञ्च कल्कैरेभिः पलार्द्धैः
कुक्षिशूलं कटीशूलं योनिशूलञ्च सर्वजम्
आयुःपुष्टिकरं बल्यं बलवर्णप्रसादनम् ।
देयमेतत्परं सर्पिविष्णुना परिकीर्तितिम्
Bhaishajya ratnavali Sthreeroga
Ghritham