Kwatha
तुलार्द्ध चाश्वगन्धाया मुशल्या:पलविंशतिः ।
मज्जिष्ठाया हरीतक्या रजन्योर्मघुकस्य च ।
रास्नाविदारीपार्थानां मुस्तकत्रिवृतोरपि
भागान् दशपलान् दद्यादनन्ताश्यामयोस्तथा
चन्दनद्वितयस्यापि वचायाश्चित्रकस्य च
द्रोणशेषे कषायेऽस्मिन्पूते शीते प्रदापयेत् ।
घातक्याः षोडशपलं माक्षिकस्य तुलात्रयम्
भागानष्टपलान् क्षुण्णानष्टद्रोणेऽम्भसः पचेत्
व्योषस्य द्विपलञ्चापि त्रिजातकचतुष्पलम्
चतुष्पलं प्रियङ्गोश्च द्विपलं नागकेशरम् |
मासादूर्ध्वं पिबेदेनं पलार्द्धपरिमाणतः
मूर्च्छामपस्मृतिं शोषमुन्मादमपि दारुणम् ।
काश्मर्यमर्शांसि मन्दत्वमग्नेर्वातभवान् गदान् ।
अश्वगन्धाद्यरिष्टोऽयं पीतो हन्यादसंशयम्
Bhaishajya Ratnavali, Moorcha roga Chikitsa
Asava AND Arishta