Kwatha:
Kalka:
Sneha:
बलाश्वगन्धलाक्षाणां क्वाथे पादावशेषिते ।
तैलप्रस्थं पचेद्धीमान् दधिमस्तु चतुर्गुणे ॥
रास्नाचंदनमञ्जिष्टादूर्वामधुकचोरकैः ।
सारिवोशीरजलद कुष्टागुरु सुरद्रुमैः ॥
हरिद्रा कुमुदं कौंती शताह्वा पत्मकेसरैः ।
कलैरेभिः सुसम्युक्तैः कार्षिकैश्च सुपेषितैः ॥
शनैः मृद्वग्निनापक्त्वा गाढयेत् भाजने शुभे ।
प्रशस्ते तिथिनक्षत्रे तत्तैलं शीलयेन्नरः॥
तेन सर्वज्वरोन्माद क्षयकासादयो गदाः ।
नश्यन्ति विविधां चैव वातरोगानसंशयः ॥
अश्विभ्यां निर्मितं तैलमेतत्पुष्टिकरं परम् ।
Sahasrayogam
Taila