एको भागो बलाधात्र्योर्गुडूच्यास्तु तदर्द्धकम् ।
उशीरस्य तदर्द्धं स्यात्तदर्द्धं हिरुबेरकम् ॥
तदर्द्धं चंदनं यष्टी प्रसूनं बकुलस्य च ।
द्रोणेऽपां विपचेत्सम्यक् चतुर्भागावशेषितम् ॥
अत्र कल्क प्रदातव्यं मधुकं चंदनद्वयम् ।
कुष्ठमुत्पलमब्दं च सारिबा च त्रिजातकम् II
जातीफलं च तक्कोलं कर्पूरं च शतावरी ।
जीवकर्षभको मेदा मृद्द्वीका कुंकुमं तथा ॥
लामज्जकश्च शालूकं चोरकद्वयपुष्करम् ।
नागपुष्पं नखं स्पृका मञ्जिष्ठा कटुरोहिणी ॥
अञ्जनं सरलं दारु चम्पकं मृगनाभिजा ।
मधूकपुष्पं श्योनाक त्रिफला फलिनी मिसिः ॥
मुस्तागुरू तथा मांसी तगरं पद्मकेसरम् ।
कषायस्य समं क्षीरं सममामलकं रसं II
दत्वा तद्वच्छतावर्यास्तैलप्रस्थं विपाचयेत् ।
एततैलं निहन्त्याशु पानाभ्यजननावनैः ॥
शिरोनेत्रगतान् रोगानन्यान्पित्ताऽनिलोद्भवान् ।
अङ्गदाहे शिरोदाहे नेत्रदाहे च शस्यते ॥
क्षतक्षयहरं वृष्यं रक्तमांसबलप्रदम् ।
ऊर्ध्वजत्रुगतान् रोगान् विशेषेण विनाशयेत् ॥
Sahasrayogam
Taila