Kwatha:
Kalka:
Patrapakam:
Sneha:
बलाशतं छिन्नरुहापदं रास्नाष्टभागिकम्॥७३॥
जलाढकशते पक्त्वा शतभागस्थिते रसे।
दधिमस्त्विक्षुनिर्यासशुक्तैस्तैलाढकं पचेत्।। ७४ ।।
समैः साजपयोर्धांशं कल्कैरेभिः पलोन्मितैः ।
शठीसरलदार्व्यैलामञ्जिष्ठागुरुचन्दनैः ॥७५॥
पद्मकातिबलामुस्तासूप्यपर्णीहरेणुभिः |
यष्टयाह्वसुरसव्याघ्रनखर्षभकजीवकैः ॥७६॥
पलाशरसकस्तूरीनलिकाजातिकोशकैः |
स्पृक्काकुङकुमशैलेयजातीकटुफलाम्बुभिः ॥ ७७॥
त्वक्कुन्दुरुष्ककर्पूरतुम्बुरुश्रीनिवासकैः |
लवङ्गनखकङ्कोलकुष्ठमांसीप्रियङ्गुभिः||७८||
स्थौणेयतगरध्यामवचामदनकप्लवैः |
सनागकेसरैः सिद्धे दद्याच्चात्रावतारिते॥७९॥
पत्रकल्कं ततः पूतं विधिना तत्प्रयोजितम्।
कासं श्वासं ज्वरं छर्दि मूर्च्छा गुल्मक्षतक्षयान्॥८०॥
प्लीहशोषावपस्मारमलक्ष्मी च प्रणाशयेत्।
बलातैलमिदं श्रेष्ठं वातव्याधिविनाशनम्॥८१॥
Ashtanga Hridaya-Vata vyadhi
Taila