Kwatha
Choorna
पथ्यासहस्रं त्रिगुणधात्रीफलसमन्वितम् ।
पञ्चानां पञ्चमूलानां सार्धं पलशतद्वयम् ॥
जले दशगुणे पक्त्वा दशभागस्थिते रसे।
आपोथ्य कृत्वा व्यस्थीनि विजयामलकान्यथ॥
विनीय तस्मिन्निर्यूहे योजयेत्कुडवांशकम् ।
त्वगेलामुस्तरजनीपिप्पल्यगुरुचन्दनम् ॥
मण्डूकपर्णीकनक शङ्खपुष्पीवचाप्लवम् ।
यष्ट्याह्वयं विडङ्गं च चूर्णितं तुलयाऽधिकम् ॥
सितोपलार्धभारं च पात्राणि त्रीणि सर्पिषः ।
द्वे च तैलात् पचेत्सर्व तदग्नौ लेहतां गतम् ॥
अवतीर्ण हिमं युज्ञ्ज्यात् विंशैः क्षौद्रशतैत्रिभिः ।
ततः खजेन मथितं निदध्याद् घृतभाजने ॥
या नोपरुन्ध्यादाहारमेकं मात्राऽस्य सा स्मृता l
षष्टिकः पयसा चात्र जीर्णे भोजनमिष्यते ॥
वैखानसा वालखिल्यास्तथा चान्ये तपोधनाः
ब्रह्मणा विहितं धन्यमिदं प्राश्य रसायनम् ॥
तन्द्राश्रमक्लमवलीपलितामयवर्जिताः।
मेधास्मृतिबलोपेता बभूवुरमितायुषः ॥
Ashtanga Hridaya-Rasayana adhikara
Lehyam