Swarasa:
Kwatha:
Kalka:
Sneha:
चन्दनोदीप्य मधुक धात्रीयष्ठ्याह्व सारिबाः |
सबलास्सलिल द्रोणे पृथक् दशपलोन्मितः ||
पक्त्वा कषाये सक्षीरे क्षिपेत् ब्राह्मीवरीरसं |
कुमारी नारिकेराम्बु तैलमानं पृथक् पृथक् ||
प्रपौण्डरिकमञ्जिष्ठधातकीपद्मकेसरं |
कुमुदोत्पलशालूक मृणालबिसपद्मकं ||
अनन्ताकुशकाशेक्षुक्षीरीशृङ्गं सवल्कलं |
गणं च जीवनीयाख्यं क्वाथे द्रव्याणि पेषयेत् ||
प्रस्थं च दत्वा तैलस्य शनैर्मृद्वग्निना पचेत् |
एतत्तैलं प्रशमयेत् दाहमूर्छा शिरोग्रहान् ||
कामिलामाढ्यरोगं च रक्तपित्तं च नाशयेत् |
प्रदरं चित्तविभ्रंशं विसर्पं चित्तवैकृतम् ||
अभ्यङ्गपाननस्याद्धैः हन्ति वज्रमिवासुरान् |
sahasrayoga
Taila