चन्द्रप्रभा वचा मुस्तं भूनिम्बामृत दारुकम्
हरिद्रातिविषा दार्वी पिप्पलीमूल चितकौ
धान्यकं त्रिफला चव्यं विडङ्गं गजपिप्पली
व्योषं माक्षिकधातुश्च द्वौ क्षारौ लवणत्रयम्
एतानि शाणमात्राणि प्रत्येकं कारयेद्बुधः
त्रिवृद्दन्तीपत्रकं च त्वगेला वंशरोचना
प्रत्येकं कर्षमात्राणि कुर्यादेतानि बुद्धिमान्
द्विकर्षं हतलोहं स्यात्च्चतुष्कर्षा सिता भवेत्
शिलाजत्वष्टकर्षं स्यादष्टौ कर्षाश्च गुग्गुलोः
एभिरेकत्र संक्षुण्णैः कर्तव्या गुटिका शुभा
चन्द्रप्रभादि विख्याता सर्वरोग प्रणाशिनी
प्रमेहान्विशतिं कृच्छ्रम् मूत्राघातं तथाश्मरीम्
विबन्धा आनाहशूलानि मेहनं ग्रन्थिमर्बुदम्
आन्त्रवृद्धिं कटिशूलं श्वासं कासं विचर्चिकाम्
अण्डवृद्धिं तथा पाण्डु कामलां च हलीमकम्
कुष्ठान्यर्शासि कण्डूं च प्लीहोदरभगन्दरम्
दन्तरोगं नेत्ररोगं स्त्रीणामार्तवजां रुजम्
पुंसां शुक्रगतान्दोषान्मन्दाग्निमरुचिं तथा
वायुं पित्तं कफं हन्याद्बल्या वृष्या रसायनी
चन्द्रप्रभायां कर्षस्तु चतुःशाणो विधीयते ।
Sarngadhara Samhitha, Vatika Kalpana
Gulika