125mg
Triphala kasaya /honey
विशुद्धं रससिन्दूरं तदर्धं लौहमभ्रकम् ।
तदर्धं कनके खल्ले कन्यास्वरसमर्दितम् ।।
एरण्डपत्रैरावेष्ट्य धान्यराशौ निधापयेत् ।
त्रिदिनान्ते समुद्धृत्य सर्वरोगेषु योजयेत् ।
एतद्रसायनवरं त्रिफलामधुसंयुतम् ।
तद्यथाग्निबलं खादेद्वलीपालितनाशनम् ।।
अपस्मारं महोन्माद रोगान् वातसमुद्भवान् ।
क्रमेण शीलितं हन्ति वृत्रमिन्द्राशनिर्यथा ।।
Bhaishajya ratnavali Vatavyadhi
Bhasma and Sindoora