चविकायास्तुलार्ध तु तदर्धं चित्रकस्य च ।
बाष्पिका पुष्करं मूलं षड्ग्रन्था हपुषा शटी
पटोलमूलत्रिफलायवानीकुटजत्वचः
विशाला धान्यकं रास्ना दन्ती दशपलोन्मिता
कृमिघ्नमुस्तमञ्जिष्ठादेवदारुकटुत्रिकम्
भागान् पञ्चपलानेतानष्टद्रोणेऽम्भसः पचेत्
द्रोणशेषे रसे पूते देयं गुडशतत्रयम्
धातक्या विशतिपलं चातुर्जातं पलाष्टकम्
लवङ्गव्योषकङ्कोलं पलिकानि प्रकल्पयेत् ।
निदध्यान्मासमेकं तु घृतभाण्डे सुसंस्कृते
चतुष्पलां पिबेन्मात्रां प्रातः पीतं नियच्छति ।
सर्वगुल्मविकारांश्च प्रमेहांश्चैव विंशतिम्
प्रतिश्यायं क्षयं कासमष्ठीलां वातशोणितम् ।
उदराण्यन्त्रवृद्धिं च चविकाख्यो महासवः
Yogaratnakara, Gulma chikitsa
Asava AND Arishta