प्रकुंचोजीर्णचिंचायाः पंच जीर्णगुडस्य च।
दश लोहस्य किट्टस्य द्वौ द्वौ बिल्वविडंगयोः॥
चीनोषणत्र्यूषणानां श्रेष्टजीरकयुग्मयोः।
त्रिजातयष्टीरास्नानां जातीफलदलस्य च॥
एतेषां पृथगर्धार्धं योजयेन्मातिमान् भिषक्।
एतच्चिंचादिकं नाम लेहं माक्षिकसेवितं।॥
तक्रेण वा रुचिकरं दीपनं पाण्डु नाशनम्।
त्वगादिषु च पीतत्वं दाहतृष्णोष्णकामिलाः॥
अम्लकं श्वासवैगन्ध्य घोरानन्यांश्च वायुजान्।
दशरात्रादतिक्रान्तं ज्वरंचाशु निवर्तयेत्॥
Sahasra yogam
Lehyam