तोयद्रोणे चित्रकमूल तुलार्धं
साध्यं यावत्पाददलस्थमथेदम् ।
अष्टौ दत्वा जीर्णगुडस्य पलानि
क्वाथ्यं भूयः सान्द्रतया सममेतत् ॥
त्रिकटुकमिसिपथ्याकुष्टमुस्तावराङ्ग-
कृमिरिपुदहनैलाचूर्णकीर्णोऽवलेहः ।
जयति गुदकुष्ठप्लीहगुल्मोदराणि
प्रबलयति हुताशं शश्वदभ्यस्यमानः ॥
Ashtanga Hridaya Arsho chikitsa
Lehyam