Kwatha:
Choorna:
दशमूलबलामुस्तजीवकर्षभकोत्पलम्
पर्णिन्यौ पिप्पली शृङ्गी मेदा तामलकी त्रुटिः
जीवन्ती जोङ्गकं द्राक्षा पौष्करं चन्दनं शठी
पुनर्नवर्द्धिकाकोलीकाकनासामृताद्वयम् ॥
विदारी वृषमूलं च तदैकध्यं पलोन्मितम् ।
जलद्रोणे पचेत्पञ्च धात्रीफलशतानि च ॥
पादशेषं रसं तस्माद्यस्थीन्यामलकानि च ।
गृहीत्वा भर्जयेत्तैलघृताद् द्वादशभिः पलैः ॥
मत्स्यण्डिकातुलार्धेन युक्तम् तल्लेहवत् पचेत् ।
स्नेहार्धं मधु सिद्धे तु तवक्षीर्याश्चतुष्पलम् ||
पिप्पल्या द्विपलं दद्याच्चतुर्जातं कणार्धितम् ।
अतोऽवलेहयेन्मात्रां कुटीस्थः पथ्यभोजनः ॥
इत्येष च्यवनप्राशो यं प्राश्य च्यवनो मुनिः |
जराजर्जरितोऽप्यासीन्नारीनयननन्दनः ॥
कासं श्वासं ज्वरं शोषं हृद्रोगं वातशोणितम ।
मूत्रशुक्राश्रयान् दोषान् वैस्वर्यं च व्यपोहति |
बालवृद्धक्षतक्षीणकृशानामङ्गवर्धनः ।
मेधा स्मृति कान्तिमनामयत्वमायु :
प्रकर्ष पवनानुलोम्यम् ।स्त्रीषु प्रहर्षं बलमिन्द्रियाणांमग्नैस्च कुर्याद्विधिनोपयुक्तः
Ashtanga Hridaya Rasayana vidhi
Lehyam