द्रोणेऽम्भसः पचेद्दन्त्याः पलानां पञ्चविंशतिम्॥
चित्रकस्य तथा पथ्यास्तावतीस्तद्रसे स्रुते
द्विप्रस्थे साधयेत्पूते क्षिपेद्दन्तीसमं गुडम्॥
तैलात्पलानि चत्वारि त्रिवृतायाश्च चूर्णतः।
कणाकर्षौ तथा शुण्ठ्याः सिद्धे लेहे च शीतले॥
मधु तैलसमं दद्याच्चतुर्जाताच्चतुर्थिकाम्।
अतो हरीतकीमेकां सावलेहपलामदन्॥
सुखं विरिच्यते स्निग्धो दोषप्रस्थमनामयः।
गुल्महृद्रोगदुर्नामशोफानाहगरोदरान् ll
कुष्ठोत्क्लेशारुचिप्लीहग्रहणीविषमज्वरान् l
घ्नन्ति दन्तीहरीतक्यः पाण्डुतां च सकामलाम्॥
Ashtanga Hridaya Gulma chikitsa
Lehyam