दशमूलकषायस्य कंसे पथ्याशतं पचेत्॥
दत्त्वा गुडतुलां तस्मिन् लेहे दद्याद्विचूर्णितम्।
त्रिजातकं त्रिकटुकं किञ्चिच्च यवशूकजम्॥
प्रस्थार्धं च हिमे क्षौद्रात्तन्निहन्त्युपयोजितम्।
प्रवृद्धशोफज्वरमेहगुल्मकार्श्यामवाताम्लकरक्तपित्तम्।
वैवर्ण्यमूत्रानिलशुक्रदोषश्वासारुचिप्लीहगरोदरं च॥
Ashtanga Hridaya Sophachikitsa
Lehyam