Kwatha
Kwatham
Prakshepam
Madhuradravya
Sandhanadravya
(पण्यौं बृहत्यौ गोकण्टो बिल्वोऽग्रिमन्थकोऽरलुः ।।७७।
पाटला काश्मरी चेति दशमूलमिहोच्यते ।)
दशमूलानि कुर्वीत भागैः पञ्चपलैः पृथक ।
पञ्चविंशत्पलं कुर्याच्चित्रकं पौष्करं तथा ।
कुर्याद्विंशत्पलं लोध्रं गुडूची तत्समा भवेत् ।
पलैः षोडशभिर्धात्री रविसंख्यैर्दुरालभा ।
खदिरो बीजसारश्च पथ्या चेति पृथक्पलैः
अष्टभिर्गणितैः कुष्ठं मञ्जिष्ठा देवदारु च ।
विडङ्ग मधुकं भाङ्गीं कपित्थोऽक्षः पुनर्नवा ।
चव्यं मांसी प्रियङ्गुश्च सारिवा कृष्णजीरकम् ।
त्रिवृता रेणुकं रास्ना पिप्पली क्रमुकः शठी।।
हरिद्रा शतपुष्पा च पद्मकं नागकेशरम् ।
मुस्तमिन्द्रयवः शुण्ठी जीवकर्षभकौ तथा ।
मेदा चान्या महामेदा काकोल्यौ ऋद्धिवृद्धिके ।
कुर्यात्पृथग्विपलिकान्पचेदष्टगुणे जले
चतुर्थांशं शृतं नीत्वा मृद्भाण्डे संनिधापयेत् ।
ततः षष्टिपलां द्राक्षां पचेन्नीरे चतुर्गुणे
त्रिपादशेषं शीतं च पूर्वक्वाथे शृतं क्षिपेत् ।
द्वात्रिंशत्पलिकं क्षौद्रं दद्याद्गुडचतुःशतम् त्रिंशत्पलानि धातक्याः
कङ्कोलं जलचन्दनम् जातीफलं लवङ्गं च त्वगेलापत्रकेशरम्
पिप्पली चेति संचूर्ण्य भागैर्द्विपलिकैः पृथक् ।
शाणमात्रां च कस्तूरी सर्वमेकत्र निक्षिपेत् ।
भूमौ निखातयेद्भाण्डं ततो जातरसं पिबेत् ।
कतकस्य फलं क्षिप्त्वा रसं निर्मलतां नयेत् ।
ग्रहणीमरुचिं श्वासं कासं गुल्मं भगन्दरम् ।
वातव्याधिं क्षयं छर्दि पाण्डुरोगं च कामलाम्
कुष्ठान्यशांसि मेहांश्च मन्दाग्निमुदराणि च ।
शर्करामश्मरीं मूत्रकृच्छ्रं धातुक्षयं जयेत्
कृशानां पुष्टिजननो वन्ध्यानां गर्भदः परः
अरिष्टो दशमूलाख्यस्तेजःशुक्रबलप्रदः ।
Sarngadhara Samhitha Asavarishta Kalpana
Asava AND Arishta