Sandhanadravya
Madhuradravya
तुलार्धं देवदारोः स्याद्वासा च पलविंशतिः ।
मञ्जिष्ठेन्द्रयवा दन्ती तगरं रजनीद्वयम् ।
रास्ना कृमिघ्नं मुस्तं च शिरीषं खदिरार्जुनौ ।
भागान्दशपलान्दद्याद्यवान्या वत्सकस्य च ।
चन्दनस्य गुडूच्याश्च रोहिण्याश्चित्रकस्य च ।
भागानष्टपलानेतानष्टद्रोणेऽम्भसः पचेत् ।
द्रोणशेषे कषाये च पूते शीते प्रदापयेत् ।
धातक्याः षोडशपलं माक्षिकस्य तुलात्रयम् ।
व्योषस्य द्विपलं दद्यात्रिजातस्य चतुष्पलम् ।
चतुष्पलं प्रियङ्गोश्च द्विपलं नागकेशरम् ।
सर्वाण्येतानि संचूर्ण्य घृतभाण्डे निधापयेत् ।
मासादूर्ध्वं पिबेदेनं प्रमेहं हन्ति दुर्जयम्
वातरोगान्ग्रहण्यशोंमूत्रकृच्छ्राणि नाशयेत् ।
देवदार्वादिकोऽरिष्टः कण्डूकुष्ठविनाशनः
Sarngadhara Samhitha Asavarishta Kalpana
Asava AND Arishta