बलामूलकषायस्य भागाः षट् पयसस्तथा।
यवकोलकुलत्थानां दशमूलस्य चैकतः॥
निष्क्वाधभागो भागश्च तैलस्य चतुर्दशः।
द्विमेदादारुमजिष्ठाकाकोलीद्वयचन्दनैः॥
सारिवाकुष्ठतगरजीवकर्षभसैन्धवैः
कालानुसार्याशैलेयवचागुरुपुनर्नवैः ॥
अश्वगन्धावरीक्षीरशुक्लायष्टीवरारसैः
शताह्वाशूर्पर्ण्येलात्वक्पत्रैः श्लक्ष्णकल्कितैः॥
पक्कं मृद्वग्निना तैलं सर्ववातविकारजित् ।
सूतिकाबालमर्मास्थिहतक्षीणेषु पूजितम् ॥
ज्वरगुल्मग्रहोन्मादमूत्राघातान्त्रवृद्धिजित् ।
धन्वन्तरेरभिमतं योनिरोगक्षयापहम् ॥
Ashtanga Hridayam, Sareerasthana, Garbha vyapat
Kashayam