Kwatha
Kalka
Sneha
दशमूलशठीदन्तीसुराह्नं द्विपुनर्नवम्॥
मूलं स्नुगर्कयोः पथ्यां भूकदम्बमरुष्करम् ।
करञ्जौ वरुणान्मूलं पिप्पल्याः पौष्करं च यत् ।।
पृथग् दशपलं प्रस्थान् यवकोलकुलत्थतः ।
त्रींश्चाष्ट्गुणिते तोये विपचेत्पादवर्तिना॥
तेन द्विपिप्पलीचव्यवचानिचुलरोहिषैः।
त्रिवृद्धिडङ्गकम्पिल्लभार्गीविश्वैश्च साधयेत् ॥
प्रस्थं घृताजयेत्सर्वास्तन्मेहान् पिटिका विषम् ।
पाण्डुविद्रधिगुल्मार्शः शोषशोफगरोदरम्॥
श्वासं कासं वमिं वृद्धिं प्लीहानं वातशोणितम्।
कुष्ठोन्मादावपस्मारं धान्वन्तरमिदं घृतम् ।
Ashtanga Hridaya Prameha chikitsa
Ghritham