Kwatha:
Kalka:
Sneha:
बलामूलकषायस्य भागा षट् पयसस्तथा ।
यवकोलकुलत्थानां दशमूलस्य चैकत: |
निष्क्वाथभागो भागश्च तैलस्य तु चतुर्दशः ।
द्विमेदादारुमञ्जिष्ठाकाकोलीद्वयचन्दनैः ॥
सारिवाकुष्ठतगरजीवकर्षभसैन्धवैः ।
कालानुसार्याशैलेयवचागुरुपुनर्नवैः |
अश्वगन्धावरीक्षीरशुक्लायष्टीवरारसैः ।
शताह्वाशूर्पपर्णी एलात्वक्पत्रैः श्लक्ष्णकल्कितैंः।
पक्वं मृद्वग्निना तैलं सर्ववातविकारजित् |
सूतिकाबालमर्मास्थिहतक्षीणेषु पूजितम् ||
ज्वरगुल्मग्रहोन्माद मूत्राघातान्त्रवृद्धिजित् ।
धन्वन्तरेरभिमतं योनिरोगक्षयापहम् ||
Ashtanga Hridaya Sareerastana Garbhavyapath chikitsa
Taila