द्राक्षामधूकमधुकरोध्राकाश्मर्यसारिवाः ॥
मुस्तामलकह्रीबेरपद्मकेसरपद्मकम् ।
मृणालचन्दनोशीरनीलोत्पलपरूषकम् ॥
फाण्टो हिमो वा द्राक्षादिर्जातीकुसुम वासितः ।
युक्तो मधुसितालाजैर्जयत्यनिलपित्तजम् ॥
ज्वरं मदात्ययं छर्दिं मूर्च्छां दाहं श्रमं भ्रमम् ।
ऊर्ध्वगं रक्तपित्तं च पिपासां कामलामपि ॥
Astanga Hridayam- Jwara chikitsa
Kashayam