Sandhanadravya
Madhuradravya
द्राक्षातुलार्धं द्विद्रोणे जलस्य विपचेत्सुधीः ।
पादशेषे कषाये च पूते शीते विनिक्षिपेत् ।
गुडस्य द्वितुलां तत्र त्वगेलापत्रकेशरम् ।।
प्रियङ्गुर्मरिचं कृष्णा विडङ्गं चेति चूर्णयेत् ।
पृथक् पलोन्मितैर्भागैस्ततो भाण्डे निधापयेत् ।
समन्ततो घट्टयित्वा पिबेज्जातरसं ततः ।
उरःक्षतं क्षयं हन्ति कासश्चासगलामयान्
द्राक्षारिष्टाह्वयः प्रोक्तो बलकृन्मलशोधनः
Sarngadhara Samhitha, Asavarishta Kalpana
Asava AND Arishta