Sneha:
एलायुग्मतुरुष्ककुष्ठफलिनीमांसीजलध्यामकं ।
स्पृक्काचोरकचोचपत्रतगरस्थौणेय जातीरसा: ।।
शुक्तिर्व्याघ्रनखोऽमराह्वमगुरुः श्रीवासकः कुङ्कुमं ।
चण्डागुग्गुलुदेवधूपखपुराः पुन्नागनागाह्वयम् ||।
एलादिको वातकफौ विषं च विनियच्छति |
वर्णप्रसादनः कण्डुपिटिकाकोठनाशनः ।।
Ashtanga Hridaya Sodhanadi ganasamgrahaneeyam
Taila