Kalka:
Kalka
Sneham:
कृष्णांस्तिलान् विरजसो दूढवस्र्त्रबद्धान्
सप्त क्षपा वहति वारिणि वासयेत ।
संशोषयेदनुदिनं प्रविसार्य चैतान्
क्षीरे तथैव मधुक क्वथिते च तोये
पुनरपि पीतपयस्कांस्तान्
पूर्ववदेव शोषितान् बाढम्।
विगततुषानरजस्कान् सञ्चूर्य सुचूर्णितैर्युञ्ज्यात्
नलदवालकलोहितयष्टिकानखमिशिप्लवकुष्ठबलात्रयैः
अगुरुकुङ्कुमचन्दनसारिवासरलसर्जरसामरदारुभिः
पद्मकादिगणोपेतैस्तिलपिष्टं ततश्च तत्।
समस्तगन्धभैषज्यसिद्धदुग्धेन पीडयेत्
शैलेयरास्नांशुमतीकसेरुकालानुसारीनतपत्ररोध्रैः
सक्षीरशुक्लैः सपयः सदूर्वैस्तैलं पचेत्तन्नलदादिभिश्च
गन्धतैलमिदमुत्तममस्थिस्थैर्यकृज्जयति चाशु विकारान् ।
वातपित्तजनितानतिवीर्यान् व्यापिनोऽपि विविधैरुपयोगैः॥
Ashtanga Hridaya Bhagna prathishedham
Taila