200mg
Honey/ milk
शुद्धो बलिर्गोपयसा विभाव्य ततश्चतुर्जातगुडूचिकाभिः
पथ्याक्षधात्र्यौषधभृंगराजैर्भाव्योऽष्टवारं पृथगार्द्रकेण॥
शुद्धे सितां योजय तुल्यभागां रसायनं गन्धकराजसंज्ञम्
कर्षोन्मितं सेवितमेति मर्त्यो वीर्यं च पुष्टिं दृढदेहवह्निम्
कण्डुं च कुष्ठं विषदोषमुग्रं मासद्वयेनेह जयेत्प्रयोगः ।
घोरातिसारं ग्रहणीगदं च हरेच्च रक्तं दृढशूलयुक्तम् ।।
जीर्णज्वरे मेहगणे प्रकृष्टं वातामयानां हरणे समर्थम् ।
प्रजाकरं केशमतीव कृष्णं करोति चेद्भक्षति चार्धवर्षम् ।
Rasaratna Samuchayam
Bhasma and Sindoora