Kwatha
Kalka
Sneha:
शतमेरण्डमूलस्य पलं शुण्ठ्या यवाढकम् ।
जलद्रोणे विषक्तव्यं यावत्पादावशेषितम् ।
तेन पादावशेषेण पयसा तत्समेन च ।
प्रस्थमेरण्डतैलस्य तन्मूलाच्च चतुःपलम्
त्रिपलं शृङ्गवेरञ्च गर्भ दत्त्वा विपाचयेत्
तत्पिवेत्प्रयतः शुद्धो नरः क्षीरान्नभुक् सदा
आन्त्रवृद्धिं जयत्याशु तैलं गन्धर्वहस्तकम् ।।
Bhaishajya Ratnavali Vridhiroga chikitsa
Taila