हरिद्रायाः पलान्यष्टौ षटपलं हविषस्तथा।
क्षीराढकेन संयुक्तं खण्डस्यार्द्धशतं तथा॥
पचेन्मृद्वग्निना वैद्यो भाजने मृन्मये दृढे।
कटुत्रिकं त्रिजातञ्च कृमिघ्नं त्रिवृतां तथा॥
त्रिफला केशरं मुस्तं लौहं प्रति पल पलम्।
सञ्चूर्ण्य प्रक्षीपेत्तत्र तोलकार्द्धन्तु भक्ष्येत्॥
कण्डू विस्फोट दद्रुणां नाशनं परमौषधम् l
प्रतप्तकाञ्चनाभासो देहो भवति नान्यथा॥
शीतपित्तोदर्दकोठान् सप्ताहादेव नशयेत्।
हरिद्रा नामतः खण्डः कण्डूनां परमौषधम्॥
Bhaishajya Ratnavali-Seeta pitta
Lehyam