Sandhanadravya
Madhuradravya
जीरकस्य तुलाद्वन्द्वं चतुर्दोणजले पचेत्
द्रोणशेषे क्षिपेतत्र तुलात्रयमिदं गुडम्
धातकीं षोडशपलां शुण्ठीश्च द्विपलोन्मिताम्
जातीफलं मुस्तकञ्च चतुर्जातं यवानिकाम्
कक्कोलं देवपुष्पं च पलमानेन निक्षिपेत्
मासं संस्थाप्य भाण्डे च मृत्तिका परिनिर्म्मिते
ततः कल्कान् विनिहृत्य पाययेत् कर्षमात्रया
अरिष्टो जीरकाद्योऽयं निहन्यात् सूतिकामयान्
ग्रहणीमतिसारञ्च तथा वह्नेश्च वैकृतम् ।
Bhaishajya Ratnavali, Suthikaroga Chikitsa
Asava AND Arishta