शुद्धसूतं तथा गन्धं मरिचं नागरं कणा
त्वचं जैपालकं कुष्ठं भूनिम्बं मुस्तकं पृथक्
चूर्णयित्वासमांशन्तुकज्जल्यासहमेलयेत्
निर्गुण्ड्याः स्वरसे चापि आर्द्रकस्वरसे तथा
भावनांदापयित्वा तु वटिकां कारयेद्भिषक्
वटिकां भक्षयित्वा तु वस्त्रवेष्टश्च कारयेत्
सर्वज्वराङ्कुशवटी सर्वज्वरविनाशिनी
पृथग्दोषांश्च विविधान् समस्तान् विषमज्वरान्
प्राकृतं वैकृतं वा अपि वातश्लेष्मकृतश्च यत्
अन्तर्गतं बहिः स्थञ्च निरामं साममेव वा
ज्वरमष्टविधं हन्ति वृक्षमिन्द्राशनिर्यथा ।
Bhaishajya Ratnavali Jwararoga adhikara
Gulika