त्रिफलाया त्रयः प्रस्थैका चामृता भवेत्
संकुठ्य लोहपात्रेण सार्धद्रोणाम्बुना पचेत
जलमर्धश्रृतं ज्ञात्वा गृह्लीयात वस्त्रगालितम
ततः क्वाथे क्षिपेच्छुद्धं गुग्गुलुं प्रस्थसम्मितं
पुन: पचेदया पात्रे दर्व्या संघर्षयेन्मुहुः
सान्द्रीभूतं ततो ज्ञात्वा गुड पाकसमाकृतिं
चूर्णीकृत्य ततस्तत्र द्रव्याणीमानि निक्षिपेत्
त्रिफला द्विपला ज्ञेया गुडूची पलिका मता
षडक्षं त्र्यूषणं प्रोक्तं विडङ्गानां पलार्धकम्
दन्ती कर्षमिता कार्या त्रिवृत्कर्षमिता स्मृता
तत पिण्डीकृतं सर्वं घृतपात्रे विनिक्षिपेत्
गुडिका शाणमात्रेण युज्यद्दोषाद्यपेक्षया
अनुपाने भिषग्दद्यात्कोष्णं नीरं पयो अथवा
मञ्जिष्ठादि श्रृतम वापि युक्तियुक्तमथापरम
जयेत् सर्वाणि कुष्ठानि वातरक्तं त्रिदोषजम
सर्वव्रणानि गुल्मानि प्रमेहपिडिकस्तथा
प्रमेहोदरमन्दाग्नि कास श्वयथुपाण्डुजान
हन्ति सर्वामयान्नित्यमुपयुक्तो रसायन :
कैशोरकाभिधानो अयं गुग्गुलुः कान्तिकारकः
वासादिना नेत्रगदान्गुल्मादीन्वरुणादिना
क्वाथेन खदिरस्यापि व्रणकुष्ठानि नाशयेत
अम्लं तीक्ष्णमजीर्णं च व्यायामं श्रममातपम
मद्यं रोषं त्यजेत्सम्यग्गुणार्थी पुरसेवकः ।
Sarngadhara Samhitha
Gulika