Sneha
वराविशालाभद्रैलादेवदार्वेलवालुकैः
द्विशारिवाद्विरजनीद्विस्थिराफलिनीनतैः
बृहतीकुष्ठमञ्जिष्ठानागकेसरदाडिमैः ॥
वेल्लतालीसपत्रैलामालतीमुकुलोत्पलैः
सदन्तीपद्मकहिमैः कर्षांशैः सर्पिषः पचेत्॥
प्रस्थंभूतग्रहोन्मादकासापस्मारपाप्मसु।
पाण्डुकण्डूविषे शोषे मोहे मेहे गरे ज्वरे॥
अरेतस्यप्रजसि वा दैबोपहतचेतसि।
अमेधसि स्खलद्वाचि स्मृतिकामेऽल्पपावके
बल्यंमङ्गल्यमायुष्यंकान्तिसौभाग्यपुष्टिदम्।
कल्याणकमिदं सर्पिः श्रेष्ठं पुंसवनेषु च॥
Ashtanga Hridaya Unmada prathisheda
Ghritham