Sandhanadravya
Madhuradravya
संक्षुध्य कनकं शाखामूलपत्रफलैः सह
ततश्चतुष्पलं ग्राह्यं वृषमूलत्वचन्तथा
मधूकं माधवी व्याघ्री केशरं विश्वभेषजम्
भार्गी तालीशपत्रञ्च सञ्चूर्ण्यैषां पलद्वयम्
संगृह्य धातकीप्रस्थं द्राक्षायाः पलविंशतिम्
जलद्रोणद्वयम् दत्वा शर्करायास्तुलां तथा
क्षौद्रस्यार्धतुलाञ्चापिसर्वसम्मिश्र्ययत्नतः
भाण्डेनिक्षिप्य चावृत्य निदध्यान्मासमात्रकम्
निहन्तिनिखिलान् श्वासान् कासंयक्ष्माणमेव च
क्षतक्षीणं ज्वरं जीर्णं रक्तपित्तमुरःक्षतम् ।
Bhaishajya Ratnavali Hikka Swasa Chikitsa
Asava AND Arishta