काञ्चनारत्वचो ग्राह्यं पलानां दशकं बुधैः
त्रिफला षट्पला कार्या त्रिकटुस्यात् पलत्रयम्
पलैकं वरुणं कुर्यात् एलात्वक्पत्रकम् तथा
एकैकं कर्षमात्रम् स्यात्सर्वाण्येकत्र चूर्णयेत्
यावच्चूर्णमिदम् सर्वं तावन्मात्रस्तु गुग्गुलु
संकुट्य सर्वमेकत्र पिण्डं कृत्वा च कारयेत्
गुडिका शाणमात्रेण प्रातर्ग्राह्या यथोचितम
गण्डमालां जयेत्युग्रामपचीमर्बुदानि च
ग्रन्थीन्व्रणांश्च गुल्मांश्च कुष्ठानि च भगन्दरम्
प्रदेयश्चानुपानार्थम क्वाथो मुण्डितकाभवः
क्वाथ खदिरसारस्य पथ्याक्वाथो अथ कोष्णकम् ।
Sarngadhara Samhitha Vatika Kalpana
Gulika