यवानी जीरकं धान्य मरिचं गिरिकर्णिका
अजमोदोपकुञ्ची च चतुः शाणा पृथक्पृथक्
हिङ्गु षट्शाणिकं कार्यं क्षारौ लवणपञ्चकम्
त्रिवृच्चाष्टमितैः शाणैः प्रत्येकं कल्पयेत्सुधीः
दन्ती शठी पौष्करं च विडङ्गं दाडिमं शिवा
चित्रो अम्लवेतसः शुण्ठी शाणैः षोडशाभिः पृथक्
बीजपुररसेनैषां गुटिकां कारयेद्बुधः
घृतेन पयसा मद्यैरम्लैरुष्णोदकेन वा
पिबेत्काङ्कायनप्रोक्ता गुटिकां गुल्मनाशिनीम्
मद्येन वातिकं गुल्मं गोक्षीरेण च पैत्तिकम्
मूत्रेण कफगुल्मं च दशमूलैस्त्रिदोषजम्
उष्ट्रीदुग्धेन नारीणां रक्तगुल्मं विनाशयेत
हृद्रोगं ग्रहणीं शूलं क्रिमीनर्शांसि नाशयेत्
Sarngadhara Samhitha, Vatika kalpana
Gulika