समूलफलपत्रायाः कण्टकार्या रसाढके
घृतप्रस्थं बलाव्योषविडङ्गशठिदाडिमैः
सौवर्चलयवक्षारमूलामलकपौष्करैः
वृश्चीवबृहतीपथ्यायवानीचित्रकर्धिभिः
मृद्वीकाचव्यवर्षाभूदुरालम्भाम्लवेतसैः
शृङ्गीतामलकीभार्ङ्गीरास्नागोक्षुरकैः पचेत्।
कल्कैस्तत्सर्वकासेषु श्वासहिध्मासु चेष्यते
कण्टकारीघृतंचैतत्कफव्याधि विनाशनम्।
Ashtanga Hridaya Kasa chikitsa
Ghritham